|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.37. अध्यायः 037
Mahabharata - Sabha Parva - Chapter Topics
आमन्त्रितानां सर्वेषां आगमनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
तत आमन्त्रिता राजन्राजानः सत्कृतास्तदा।
पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः॥ 2-37-1(12892)
ते वै दिग्भ्यः समापेतुः पार्थिवास्तत्र भारत।
समादाय महार्हाणि रत्नानि विविधानि च॥ 2-37-2(12893)
तच्छ्रुत्वा धर्मराजस्य यज्ञे यज्ञविदस्तदा।
राजानः शतशस्तुष्टैर्मनोभिर्मनुर्षभ॥ 2-37-3(12894)
बहु वित्तं समादाय विविधं पार्थिवा ययुः।
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम्॥ 2-37-4(12895)
स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः।
भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः॥ 2-37-5(12896)
प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत्तदा।
धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम्॥ 2-37-6(12897)
दुर्योधनमुखांश्चैव भ्रातॄन्सर्वानथानयत्॥ 2-37-7(12898)
सत्कृत्यामन्त्रिताः सर्वे ह्याचार्यप्रमुखास्ततः।
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः॥ 2-37-8(12899)
धृतराष्ट्रश्च भीष्मश्च विदुरस्च महामतिः।
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते।
गान्धारराजः सुबलः शकुनिश्च महाबलः॥ 2-37-9(12900)
अचलो वृषकश्चैव कर्णश्च रथिनां वरः।
तथा शल्यश्च बलवान्बाह्लिकश्च महाबलः॥ 2-37-10(12901)
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः।
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः॥ 2-37-11(12902)
यज्ञसेनः सपुत्रश्च साल्वश्च वसुधाधिपः।
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः॥ 2-37-12(12903)
स तु सर्वैः सह म्लेच्छैः सागरानूपवासिभिः।
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः॥ 2-37-13(12904)
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा।
आकर्षाः कुन्तलाश्चैव गालवाश्चान्ध्रकास्तथा॥ 2-37-14(12905)
द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा।
कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः॥ 2-37-15(12906)
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते।
विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः॥ 2-37-16(12907)
राजानो राजपुत्राश्च नानाजनपदेश्वराः।
शिशुपालो महावीर्यः सह पुत्रेण भारत॥ 2-37-17(12908)
आगच्छत्पाण्डवेयस्य यज्ञं समरदुर्मदः।
रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः॥ 2-37-18(12909)
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान्।
उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा॥ 2-37-19(12910)
वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः।
एते चान्ये च बहवो राजानो मध्यदेशजाः॥ 2-37-20(12911)
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम्।
ददुस्तेषामावसथान्धर्मराजस्य शासनात्॥ 2-37-21(12912)
बहुभक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान्।
तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम्॥ 2-37-22(12913)
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः।
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान्॥ 2-37-23(12914)
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः।
सुवर्णजालसंवीतान्मणिकुट्टिमभूषितान्॥ 2-37-24(12915)
सुखारोहणसोपानान्महासनपरिच्छदान्।
स्नग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः॥ 2-37-25(12916)
हंसेन्दुवर्णसदृशानायोजनसुदर्शनान्।
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः॥ 2-37-26(12917)
बहुधातुनिबद्धाङ्गान्हिमवच्छिखरानिव।
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम्॥ 2-37-27(12918)
वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम्।
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः।
भ्राजते स्म तदा राजन्नाकपृष्ठं यथाऽमरैः॥ ॥ 2-37-28(12919)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि सप्तत्रिंशोऽध्यायः॥ 37॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-37-8 ब्रह्मपुरस्सराः ब्राह्मणपुरस्सराः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|